सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शास्त्रीयलेखाः

अग्निपुराणम् अष्टादशपुराणेषु अन्यतमः। संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम्। स्वयं पुराणमिदं स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते। इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च। पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम्। तानि च सम्भाषणान्यग्निवसिष्ठयोः। पुराणमिति शब्दाकर्णनमनु सृष्टिः प्रतिसृष्टिरित्यादि वस्तुपूगं किलानुसन्दधति विमर्शनविचक्षणाः। अत्रापि सर्गस्य (सृष्टेः)विचारः १७-२० एतेष्वध्यायेषु वर्तते। प्रतिसर्गस्य तु पुनः ३३८ संख्याङ्कितस्याध्यायस्याननन्तरम्। (अधिकवाचनाय »)



आधुनिकलेखः

नीरज चोपडा इत्येषः प्रप्रथमः भारतीयव्यायामिकोऽस्ति, येन वैश्विकस्पर्धायां सुवर्णपदकं प्राप्तम्। पोलैण्ड-देशस्य बाईगॉश-महानगर�� जायमानायां विंशत्यून-वैश्विकस्पर्धायाम् एकोनविंशवर्षीयः कनिष्ठव्यायामिकः सः ज्येष्ठानाम् अपि अभिलेखम् अत्यक्राम्यत्। एवं सः लेटवीएन् जिगीसमंड्स् (ज्येष्ठः शल्यक्षेपकक्रीडालुः) इत्यनेन २०११ तमे वर्षे रचितं ८४.६९ मीटर्-यावत् पूर्वविश्वाभिलेखं अतिक्रान्तवान्। नीरजः तस्यां वैश्विकस्पर्धायां ८६.४८ मीटर्दूरे शल्यं प्रक्षिप्य नवीनम् अभिलेखम् अरचयत्। चिरस्मरणीयक्षेपणेषु नीरजस्य तस्य क्षेपणस्य गणना भवति।(अधिकवाचनाय »)




ज्ञायते किं भवता?

भर्तृहरिणा विरचितं शतकत्रयम्—

  1. नीतिशतकम्
  2. शृङ्गारशतकम्
  3. वैराग्यशतकम्



वार्ताः

संस्कृतवार्ताः
संस्कृतविकिपीडिया
  • केरळराज्यस्य संस्कृत-विश्वविद्यालये पूर्वकुलपतेः त्यागपत्रस्य अनन्तरम् अयोग्यरूपेण स्वीकृताः सञ्चिकाः नूतनकुलपतिना निरस्ताः इति केरलकौमुदी-वृत्तपत्रस्य keralakaumudi.com जालपुटे प्रकाशितं वर्तते।
  • कामेश्वरसिंह-दरभङ्गा-संस्कृत-विश्वविद्यालये बिहार-दिवसस्य उपलक्ष्ये एका विशेष-सङ्गोष्ठी आयोजिता यस्यां कुलपतिना विकसित-बिहार-राज्यस्य सङ्कल्पना प्रस्तुता इति लाईव-हिन्दुस्तान-वृत्तपत्रस्य livehindustan.com जालपुटे विज्ञापितम्।
  • हरियाणाराज्यस्य कैथल-नगरे स्थितेन महर्षिवाल्मीकि-संस्कृत-विश्वविद्यालयेन शास्त्री-तृतीय-सत्रस्य आचार्य-प्रथम-सत्रस्य च परीक्षापरिणामाः घोषिताः इति तेषाम् अधिकृत-जालपुटे mvsu.ac.in इत्यत्र द्रष्टुं शक्यते।
  • वाराणस्यां स्थितस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदाय नूतना नियुक्ति-विज्ञप्तिः प्रकाशिता इति विश्वविद्यालयस्य ssvv.ac.in जालपुटे उद्घोषितम्।

अद्यतनं सुभाषितम्

सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।

वृणुते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥

किरातार्जुनीयम् – २/३०

जीवने सर्वदा विचिन्त्य एव सर्वे व्ययहाराः कर्तव्याः। कोऽपि जनः अविचिन्त्य हठात् किमपि कार्यं न कुर्यात्। यदि तथा क्रियेत तर्हि तादृशम् अविवेकिनं महत्यः आपदः आवृण्वन्ति। किन्तु यः सम्यक् विचार्य पदं स्थापयति सः उत्तमफलानि एव प्राप्नोति। तस्य गुणैः आकृष्टा सम्पत्तिः स्वयमेव धावन्ती तत्समीपम् आगच्छति।


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्